-
Notifications
You must be signed in to change notification settings - Fork 1
/
chapter16.xml
118 lines (115 loc) · 9.88 KB
/
chapter16.xml
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text xml:lang="sa-Deva">
<body>
<div type="chapter" n="१६">
<head>दैवासुरसम्पद्विभागयोगः</head>
<sp who="श्रीभगवानुवाच">
<speaker>श्रीभगवानुवाच</speaker>
<lg n="१६-१">
<l n="१६-१.१">अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।</l>
<l n="१६-१.२">दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१॥</l>
</lg>
<lg n="१६-२">
<l n="१६-२.१">अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।</l>
<l n="१६-२.२">दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२॥</l>
</lg>
<lg n="१६-३">
<l n="१६-३.१">तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।</l>
<l n="१६-३.२">भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३॥</l>
</lg>
<lg n="१६-४">
<l n="१६-४.१">दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।</l>
<l n="१६-४.२">अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४॥</l>
</lg>
<lg n="१६-५">
<l n="१६-५.१">दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।</l>
<l n="१६-५.२">मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५॥</l>
</lg>
<lg n="१६-६">
<l n="१६-६.१">द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।</l>
<l n="१६-६.२">दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ १६-६॥</l>
</lg>
<lg n="१६-७">
<l n="१६-७.१">प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।</l>
<l n="१६-७.२">न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७॥</l>
</lg>
<lg n="१६-८">
<l n="१६-८.१">असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।</l>
<l n="१६-८.२">अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८॥</l>
</lg>
<lg n="१६-९">
<l n="१६-९.१">एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।</l>
<l n="१६-९.२">प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९॥</l>
</lg>
<lg n="१६-१०">
<l n="१६-१०.१">काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।</l>
<l n="१६-१०.२">मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१०॥</l>
</lg>
<lg n="१६-११">
<l n="१६-११.१">चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।</l>
<l n="१६-११.२">कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११॥</l>
</lg>
<lg n="१६-१२">
<l n="१६-१२.१">आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।</l>
<l n="१६-१२.२">ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२॥</l>
</lg>
<lg n="१६-१३">
<l n="१६-१३.१">इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।</l>
<l n="१६-१३.२">इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३॥</l>
</lg>
<lg n="१६-१४">
<l n="१६-१४.१">असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।</l>
<l n="१६-१४.२">ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४॥</l>
</lg>
<lg n="१६-१५">
<l n="१६-१५.१">आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।</l>
<l n="१६-१५.२">यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५॥</l>
</lg>
<lg n="१६-१६">
<l n="१६-१६.१">अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।</l>
<l n="१६-१६.२">प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६॥</l>
</lg>
<lg n="१६-१७">
<l n="१६-१७.१">आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।</l>
<l n="१६-१७.२">यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७॥</l>
</lg>
<lg n="१६-१८">
<l n="१६-१८.१">अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।</l>
<l n="१६-१८.२">मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८॥</l>
</lg>
<lg n="१६-१९">
<l n="१६-१९.१">तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।</l>
<l n="१६-१९.२">क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९॥</l>
</lg>
<lg n="१६-२०">
<l n="१६-२०.१">आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।</l>
<l n="१६-२०.२">मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२०॥</l>
</lg>
<lg n="१६-२१">
<l n="१६-२१.१">त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।</l>
<l n="१६-२१.२">कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१॥</l>
</lg>
<lg n="१६-२२">
<l n="१६-२२.१">एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।</l>
<l n="१६-२२.२">आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२॥</l>
</lg>
<lg n="१६-२३">
<l n="१६-२३.१">यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।</l>
<l n="१६-२३.२">न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३॥</l>
</lg>
<lg n="१६-२४">
<l n="१६-२४.१">तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।</l>
<l n="१६-२४.२">ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४॥</l>
</lg>
</sp>
<emph n="१६">
<lg>
<l>ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु</l>
<l>ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे</l>
<l>दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६॥</l>
</lg>
</emph>
</div>
</body>
</text>
</TEI>